________________ सुभाषित सूक्तरत्नमाला क्ष्माभृत्केशवचक्रिशक्रशशभृत्प्रद्योतनानां पदं. सार्वश्रीगणभृत्पदं शिवरमा सल्लब्धयो देहिनाम् // 33 // दुःखात् कौतुकविस्मयव्यवहृतेर्भावात् कुलाचारतो। बैराग्यच्च भजन्ति धर्मममलं तेषाममेयं फलम् / श्लोकाः दानं दारिद्यनाशाय. शीलं दुर्गतिवारणम् / तपः कर्मविनाशाय. भावना भवनाशिनी // 34 // . 4 संघसूक्तानि संघोऽयं गुणरत्नरोहणगिरिः संघः सतां मण्डनं, संघोऽयं प्रबलप्रतापतरणिः संघो महामङ्गलम् / संघोऽभीप्सितदानकल्पविटपी संघो गुरूणां गुरुः, संघः सर्वजिनाधिनाथमहितः संघश्चिरं नन्दतात् // 1 // रत्नेषु चिन्तामणिरत्नं यत्र सारस्तरूणामिव कल्पवृक्षः। देवेषु सर्वेष्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसङ्घः॥२॥ ज्ञानादिनिश्शेषगुणौघरत्नाकरे बिन्दुरिवाम्भसोऽन्तः। सङ्के नियुक्तो निजवित्तलेशः, स्यादक्षय: क्षीणपरिक्षयेत्र // 3 // लोकेभ्योपि नृपतिस्ततोपि हि वरश्चक्री ततो वासवः, सर्वेभ्योपि जिनेश्वरः समधिको विश्वत्रयीनायकः। सोपि ज्ञानमहोदधिः प्रतिदिनं सङ्घ नमस्यत्यहो, वज्रस्वामिवदुन्नत्तिं नयति तं यः स प्रशस्यः क्षितौ // 4 //