________________ 18 सुभाषित सूक्तरत्नमाला साहम्मि वच्छलं जेण, जिणिदेहिं भुवणपणएहिं / सम्मत्तमुद्धिहेउ, निदिहं धम्मियजणस्स // 11 // साहम्मि य थिरकरणे, वच्छलं सासणस्स सारोत्ति / मम्गसहायत्तणओ, तहा अनासो अधम्मा उ // 12 // 5 दानसूक्तानि पात्रे धर्मनिबन्धनं तदितरे प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्धनं रिपुजने वैरापहारक्षमम् / भृत्ये भक्तिभरावहं नरपतौ सन्मानसंपादकं, .. भट्टादौ च यशस्करं वितरणं न क्वाऽप्यहो निष्फलम् // 1 // देयं भोज ! धनं धनं सुकृतिना नो, संचितव्यं कदा. श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिरा / अस्माकं मधु दानभोगरहितं नष्टं चिरात् सञ्चितं. निर्वेदादिति पाणिपद्मयुगलं घर्षत्यसौ मक्षिका // 2 // ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः। . अन्नदानात् सुखी नित्यं, निर्व्याधिरौषधाद् भवेत् // 3 // गोदुग्धं वाटिकापुष्पं, विद्या कूपोदकं धनम् / दानेन वर्धते नित्यं, विना दानं विनश्यति // 4 // प्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्तरम् / दत्तं श्रेयांसि संस्ते, विष्टा भवति भक्षितम् // 5 //