________________ श्रीवीतरागस्तुतिः अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् / चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः // 55 // नारका अपि मोदन्ते, यस्य कल्याणपर्वसु / पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? // 56 // संसारमारवपथे पतितेन नाथ !, सीमन्तिनीमरुमरिचिविमोहितेन / दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व, तृष्णापनोदवशतो जिन ! नितिं मे // 5 // रागाद् द्वेषात् तथा मोहाद् , भवेद्वितथवादिता। तदभावे कथं नामाहतां वितथवादिता // 58 // तीर्थेशं प्रगमोत्तमाङ्ग ! रसने ! त्वं घोषयाहनिशं, पाणी ! पूजयतं मनः ! स्मर पदे ! तस्याऽऽलयं गच्छतम् / एवं चेत् कुरुताऽखिलं मम हितं शिरसादयस्तद् ध्रुवं, नोपीक्षे भवतां कृते भव महाशार्दूलविक्रीडितम् // 59 // श्रीपार्थों धरणेन्द्रसेवितपदः पार्श्व स्तुवे भक्तितः, पार्श्वन प्रतियोधितश्च कमठः पार्थाय कुर्वेऽर्चनम् / पार्थाचिन्तितकार्यसिद्धिरखिला पार्श्वस्य तेजो महत, श्रीपार्थे प्रकटप्रभाव इह नः श्रीपार्श्व ! सौख्यं कुरु // 6 // त्वन्मूर्तिहृदि जागति रागार्तिहरणक्षमा / मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् // 61 //