________________ सुभाषित सूक्तरत्नमाला श्रीशत्रुजयभूषणं जिनवरं श्रीनाभिभूपात्मजं, . सेन्द्राकिवरैर्नरेन्द्रनिकरैर्भक्त्याप्रणुन्नैर्नतम् / / ज्ञानं यस्य त्रिकालवस्तुविषयं लोकेतराभासकं, सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरम् // 62 // श्रीपार्श्व तीर्थनाथं प्रशमरसनयं केवलानन्दयुक्तं. वामेयं पार्श्वयक्षैः सुरवरसहितः सेवितं भूरिभक्त्या / यस्य स्नात्राभिषेकपृथुतरकमलैनिर्जरा यादवाः स्युः, ख्यातं शर्केश्वरं तं त्रिभुवनविहितख्यातकीर्ति नमामि / भुवनभावविभावनभास्कर, विकटटुर्घटसङ्कटजित्वरम् / विमलनाथमनन्तगुणास्पदं, जिनवरं जितमोहमहं स्तुवे // 64 // इन्दियविसयकसाए, परीसहे वेयणा य उवसग्गे / रागद्दोसे कम्मे, अरी हणंतीति अरिहंता // 65 // सङ्कल्पोऽपि न कल्पतल्पजतरौ चिन्ता न चिन्तामणौ, कामः कोपि न कामकुम्भविषयो नो चित्रकृचित्रकः / मन्ये काञ्चनपुरुषोऽपि पुरुषो नो कामधेनौ मनो, यत्ते श्रीमुनिराजपादकमलद्वन्द्वं मया वन्दितम् // 66 // अंहःसंहतिमाशु लुम्पति धृति धत्ते विधत्ते शिवं, चारित्रं चिनुते निहन्ति कुमतिं भिन्ते भृशं दुर्गतिम् / पुष्णात्यद्भुतशुद्धबुद्धिमहिमाः श्रीधर्मकीर्तिप्रभाः, श्रीवाचंयमराज ! भव्यभविनां पादप्रसादस्तव // 67 // कल्पद्रुकामधुचिन्तामणिभ्योप्यतिदुर्लभम् / त्वत्पादसेवामेवाहमर्थये सर्वथा प्रभो! // 68 //