________________ श्रीवीतरागस्तुतिः ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलिं निरुपमा सा भारती भारती। या ते न्यञ्चति पादयोर्वरदयोः सा कन्धरा कन्धरा, यत्ते ध्यायति नाथ ! वृत्तमनघं तं मानसं मानसम् // 38 // स्वामिनामपि यः स्वामी, गुरूणामपि यो गुरुः / देवानामपि यो देवः, तस्मै तुभ्यं नमो नमः // 39 // अन्यथा शरणं नास्ति, त्वमेव शरणं मम। तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! // 40 // अद्य मे सफलं जन्म, अद्य मे सफला क्रिया / अद्य मे सफलं गात्रं, जिनेन्द्र ! तव दर्शनात् // 41 // दर्शनाद् दुरितध्वंसी, वन्दनाद् वाच्छितप्रदः। पूजनात् पूरकः श्रीणां, जिनः साक्षात्सुरद्रुमः॥४२॥ नाभ्यर्थये स्वर्गसुखं, न मोक्षं न नरश्रियम् / सदा त्वत्पादपद्मानि, वसन्तु मम मानसे // 43 // पाताले यानि बिम्बानि, यानि विम्बानि भूतले / स्वर्गेपि यानि विम्बानि, तानि वन्दे निरन्तरम् // 44 // जिने भक्तिजिने भक्तिर्जिने भक्तिदिने दिने / सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे // 45 // चिन्तामणिः सुरतरुः सुरधेनुकामकुम्भौ सुराश्च निखिला मयि सुप्रसन्नाः /