________________ सुभाषित सूक्तरत्नमाला सर्वज्ञमीश्वरमनन्तमसङ्गमय, सार्वीयमस्मरमनीशमनीहमीद्धम् / सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि // 32 // श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्वत् , सत्स्वप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः। सूर्य वीर्यादहार्यादभिभवितुमिवाभिषवो यस्य दीप्राः, प्रोत्सर्पन्त्यघ्रियुग्ममभवनखभुवः स श्रिये स्ताद् जिनो वः॥३३ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्नानुद्धर्तुं सत्त्वसार्थानिव नखजमजाजीर्णरज्जूर्यदीयाः। पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्थाः, भर्तु तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्ध // 34 // नित्यानन्दपदप्रयाणसरणी श्रेयोवनीसारणी, संसारार्णवतारणैकतरणी विश्वद्धिविस्तारिणी। पुण्याकुरभरप्ररोहधरणी व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूतिर्मनोहारिणी // 35 // समस्तजीवे करुणाशरीरः, संप्राप्तसंसारपयोधितीरः। देवाधिदेवः कृतशक्रसेवः, सर्वावभासी शिवसद्मवासी // 36 // यः सर्वैरपि सेव्यते सुकृतिभिः ध्यायन्ति यं योगिनो, येनाऽतारि भवोदधिर्बुधजना यस्मै नमस्कुर्वते / यस्माद् ज्ञानधनागमस्त्रिभुवने यस्यास्त्यनन्तं सुखं, लीनं यत्र सतां मनः स दिशताद् वः पुण्यभावं जिनः॥३७॥