________________ 435 श्रीगुरुमहिमासूक्तानि ___ 149 श्रीगुरुमहिमासूक्तानि जेनाथी धर्म पाम्या होइए ते धर्मगुरु प्रथम वांदवा योग्य के. यो येन स्थापितो धर्म, गृहिणा साधुनाऽपि वा। स तस्य जायते धर्म-गुरुधर्मोपदेशतः // 1 // गुरोरपि गरियोस्तु, धर्माचार्यप्रकीर्तितः। स प्रथमं वन्दनीयः, पूजनीयश्च भावतः॥२॥ गुरु कोण? . माता पिता कलाचार्या, एतेषां ज्ञातयस्तथा।। वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सता मतः॥ 3 // माता-पितादिथी प्रण गुरु अधिक माता पिता सुतो बन्धुः, प्रिया मित्रं च तन्नहि / कुर्वन्ति गुरवस्तुष्टा, यदकारणवत्सलाः // 4 // धर्मगुरुना नमनथी जे सुख थाय ते इंद्रादिकने पण न होय राजा वा राजराजो वा, शक्रो वा न तदश्नुते / सुखं यल्लभते धर्म-गुरुपादनतौ रतः॥५॥ निर्भाग्योऽपि जडोऽप्यनाकृतिरपि प्राज्ञोपहास्योऽपि हि, मूकोऽप्यप्रतिभोऽप्यसन्नपि जनानादेयवाक्योपि हि / पादास्पृश्यतमोऽपि सज्जनजनैर्नम्यः शिरोभि भवेयत्पादद्वितयप्रसादनविधेस्तेभ्यो गुरुभ्यो नमः // 6 //