________________ 434 सुभाषितसूक्तरत्नमाला दर्शयन् वर्मवीराणां, सुरासुरनमस्कृतः / नीतित्रितयकर्ता यो, युगादौ प्रथमो जिनः // 3 // रैवतादौ जिनो नेमि-युगादिविमलाचले / ऋषीणामाश्रमादेव, तेषां मार्गस्य कारणम् // 4 // नाभिस्तु जनयेत्पुत्रं, मरूदेव्यां मनोहरम् / ऋषभं क्षत्रियश्रेष्ठं, सर्वक्षत्रस्य पूर्वकम् / / 5 / / ऋपभाद्भरतो जज्ञे, वीरपुत्रशताग्रजः / राज्येऽभिषिच्य भरतं, महापात्राज्यमाश्रितः // 6 // नित्यानुभूतनिजलाभनिवृत्ततृष्णः, श्रेयस्य सद्रचनया चिरसुप्तबुद्धेः। लोकस्य यः करुणयोभयमात्मलोकमाख्यन्नमो भगवते ऋषभाय तस्मै / / 7 / / सत्युगमां दशबाह्मणने जमाडतां जे फल थाय ते फल कलियुगमां जैनमुनिने दान आपवाथी थाय. दशभि जितेविप्रै--यत्फलं जायते कृते / मुनेरईतां भक्तस्य, तत्फलं जायते कलौ // 8 // अडसठतीर्थनी यात्राथी जे फळ मळे ते फळ आदिनाथना स्मरण मात्रथी मळे. अष्टषष्टिषु तीर्थेषु, यात्राया यत्फलं भवेत् / आदिनाथस्य देवस्य, स्मरणेनापि तत्फलम् / / 9 //