________________ 405 अहिंसासर्मथकसूक्तानि तैल-स्त्री--मांससंभोगी, पर्वेष्वेतेषु यः पुमान् / विष्मूत्रं भोजनं नाम, प्रयाति नरकं मृतः॥१७॥ मनसापि हते जन्तौ, हन्तुर्मत्युरनेकशः। परस्य दत्तं यदुःख-मनेकश आत्मनो भवेत् // 18 // तीर्थ स्नानानि दानानि, दीक्षा शिक्षा च सद्गुरोः / अमांसभक्षणस्तुल्या-न्येतानि न कदाचन / 19 // (मांसभक्षणकारिणो, न फलंति कदाचन // ) पाठांतर त्रिविक्रमराजा मारी नाखेला पक्षीना भवो विहगः शबरो सिंहो, द्विपी सिंहः फणी द्विजः। येनामी निहताः कोपात , स कथं भाविता हहा // 20 // 70 अहिंसासमर्थकसूक्तानि अहिंसानी सर्वोपरिता दया यस्य तपस्तस्य, शीलं सर्वगुणा अपि / दयाहीनस्य नो शीलं, न तपो न गुणा अपि // 1 // यः करोत्यर्थदानेना-दारिद्यमखिलं जगत् / एक हिनस्ति जीवं च, सर्व तस्य निरर्थकम् // 2 // सर्वधर्मक्रियामूलं, सर्वसौख्यककारणम् / सर्वजीवाभयदानं, सर्वदर्शनसम्मतम् // 3 // तद्धयेयं मनसा तच्च, वाच्यं वाचा मनस्विभिः / वेष्टितव्यं तदङ्गेन, येन कोऽपि न पीडयते // 4 //