________________ 404 सुभाषितसूक्तरत्नमाला एकस्य स्यात् क्षणं तृप्ति-रन्यस्य जनुषः क्षयः। तत्कथं मार्यते प्राणि-गणः क्षणिकतृप्तये // 9 // वराका वञ्चिता नूनं, परलोकसुखेन ते।। जन्मापि निष्फलं तेषां, येषां मांसाशने म (र) तिः॥१०॥ अशाश्वतस्य तुच्छस्य, शरीरस्यास्य हेतवे / मारयन्तीह ये जीवान , किं ते जगति शाश्वताः // 11 // हंतूण परप्पाणे, अप्पाणं करेइ सप्पाणं / अप्पाण दिवसाणं, कए विणासेई अप्पाणं // 12 // रसातलं यातु यदत्र पौरुषं, कुनीतिरेषाऽशरणो ह्यदोषवान् / निहन्यते यद्बलिनापि निर्बलो, हहा महाकष्टमराजकं जगत्॥ हिंसा कदापि न कर्तव्या। , घातकादि पांचने प्राणिवधनुं पाप लागे घातकश्वानुमन्ताश्च, भक्षकः क्रय-विक्रयौ। लिप्यन्ते प्राणिघातेन, पञ्चाप्येते युधिष्ठिर ! // 14 // हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा / क्रेतानुमन्ता दाता च, घातकाः सर्व एव च // 15 // पौराणिकमते पर्वोनां नाम अने तेमां मांसादि द्वारा नरक विधान चतुर्दश्यष्टमी चैवा-मावास्या चैव पूर्णिमा / पर्वाण्येतानि राजेन्द्र ! रविसंक्रातिरेव च // 16 //