________________ 403 हिंसाप्रतिकारकसूक्तानि 69 हिंसाप्रतिकारसूक्तानि हिंसानी भयंकरता: भेषजेऽपि हि यो मांस-भक्षणानुमतिप्रदः। सोऽपि मांसाशिनः पृष्ठ-लग्नो गच्छति दुर्गतिम् // 1 // मांसाशिनो नरस्य, खलु परत्रायुश्च परिहीयते / परिवर्धते दौर्भाग्य, दुस्सहदुःखं च निरयेषु // 2 // भवेत्कुरूपो निर्भाग्यो, दुर्भगो नित्यदुःखितः / पङ्गः कुष्ठी कुणिः क्लीबो, जीवो हिंस्रोऽन्यजन्मनि // 3 // दौर्भाग्यमङ्गवैगुण्यं, दुर्गती रोगितादि च। हिंसायाः फलमालोक्य, कः सुधीविदधीत ताम् // 4 // हिंसैव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् / राजयक्ष्मेव रोगानां, लोभः सवांहसां गुरुः // 5 // जननमरणदुःखं क्षुण्णदेहैरजस्रं, . भव इह यदनन्तो भ्रान्तपूर्वोऽसुमद्भिः / . अभिदधति मुनीन्द्रास्तत्र नैवान्यहेतुः प्रकटनरकवम प्राणिहिंसां विहाय // 6 // एकांशेनापि हिंसा स्या-त्पाप्मनि विहिता जनैः / दामन्नकोदाहरण-मत्र श्रृणुत भावतः // 7 // हत्वा यः प्राणिसङ्घातं, कुरुते मांसभक्षणम् / तिलमात्रं सुखं तस्य, दुःखं मेरुसमं भवेत् // 8 //