________________ सुभाषितसूक्तरत्नमाला कृतयोगी, गीतार्थः, अशेषसमयवर्तमानश्रुतेन / / सध्यान प्राप्तिनो उपाय-अर्थात् आवश्यकनी कर्त्तव्यता यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति / धर्मध्यानं निरालम्ब-मित्युचुर्जिनभास्कराः // 23 // प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् / योऽसौ नैवागमं जनं, वेत्ति मिथ्यात्वमोहितः // 24 // तस्मादावश्यकैः कुर्यात्, प्राप्तदोपनिकृन्तनम् / यावन्नाप्नोति सद्धयान--मप्रमत्तगुणाश्रितम् // 25 // जे कपायथी मुक्त छे तेज परम योगी छे न यस्य मित्रं न च कोपि शत्रु-निजः परो वापि न कश्चनास्ते। न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी // 26 // मोहाधीन आत्मानी अवदशा। आत्मभ्रपतिरयं सनातनः, पीतमोहमदीराविमोहितः / किङ्करस्य मनसोपि किङ्करै--रिन्द्रियैरहह किङ्करीकृतः // 27 // मधुरं रसमाप्य स्यन्दते, रसनायां रसलोभिनां जलम् / परिभाव्य विपाकसाध्वसं, विरतानां तु ततो दृशि जलम् / / 28 // आशंला रहित सर्वक्रिया करवी आशंसया विनिर्मुक्तो--ऽनुष्ठानं सर्वमाचरेत् / मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः // 29 // सदनुष्ठानरागेण, तद्धेतुमार्गगामिनाम् / एतच्च चरमावर्तेऽनाभोगादेविना भवेत् // 30 // धर्मयौवनकालोऽयं....इत्यादि.