________________ 320 सुभाषितसूक्तरत्नमाला कलेव चन्द्रस्य कलङ्कमुक्ता, मुक्तावलीवोरुगुणप्रपन्ना / जगत्त्रयस्याभिमतं ददाना, जिनेश्वरी कल्पलतेव मूर्तिः // 35 // राग-द्वेष-कषाय-मोहमथनो निर्दग्धकर्मेन्धनो, लोकालोकविकासकेवलगुणो मुक्तायुधो निर्भयः / शापानुग्रहवर्जितो गदतृषा-क्षुक्तामनिद्राजराक्रीडाहास्यविलासशोकरहितो देवाधिदेवो जिनः // 36 // न कोपो न लोभो न मानो न माया, न लास्यं न हास्यं न गीतं न कान्ता / न वै यस्य भीतिर्न शत्रुन मित्रं, तमेकं प्रपद्ये जिनं देवदेवम् // 37 // सर्वज्ञो जितरागादि-दोषस्त्र्यैलोकयपूजितः / यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः // 38 // सद्धर्मबीजवपनानघकौशलस्य, ___ यल्लोकबान्धव ! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः // 39 // वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् / न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाडूवलः // 40 // जिनस्य विश्वत्रितय-भाषिनो ध्यायिनं जनम् / इन्तुमीष्टे नहीन्द्रोऽपि, तज्जनोऽयं बिभेति किम् // 41 //