________________ 317 श्री वीतरागस्तुतिः _ . परमात्मस्तुतिः अद्य मे सफलं जन्म, पुण्यान्यद्योदितानि च / सफलं जीवितं चाद्य, पवित्रं च गृहाङ्गणम् // 10 // यच्चिन्तामणिकल्पद्रु-निधिवत्त्वं समागतः / श्लोकार्थः नामापि श्रुयते नाथ ! त्वदीयं सुकृतोदयात् / किं पुनदर्शनमिदं, दर्शनानन्ददायिनम् // 11 // तदसौ श्रीः परिजनो, ममेदं जीवितं वपुः / सर्वमेतत्तवायत्त-मनुगृह्णातु मां प्रभुः // 12 // नमामि त्वां भवाम्भोधि-निस्तारकशिरोमणिम् / निःशेषदोषरहितं, महितं सर्वदा गुणैः // 13 // तेषां वृथा कृते नेत्रे, वञ्चितास्ते तपस्विनः / जगदेकेक्षितव्यस्त्वं, दृष्टो यैन जिनेश्वरः // 14 // जानेऽहमद्य जातोऽस्मि, विवेकोऽद्य मयाऽर्जितः। प्रभूतपुण्यैर्जातोऽसि, यत्त्वं लोचनगोचरः // 15 // प्रशान्ताय सुरुपाय, निर्विकाराय तायिने / चिन्तातीतप्रदायाऽऽद्य-देवदेवाय नमोस्तु ते // 16 // सर्वज्ञः सर्वदर्शी सकलसुखकरः सर्वसंतापहर्ता, पूज्यः सर्वेश्वराणामनणुगुणयुतः कर्मसाक्षीव भास्वान् / सोमः पञ्चेषुवीरो नरकविमथनो योगिभिर्येयमूर्तियॊऽनन्तो व्यक्तरूपोन निधनकलितो वीतरागः स पातु // 17 //