________________ 1 श्री वीतरागस्तुतिः मङ्गलाष्टकम् मङ्गलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः / मङ्गलं स्थूलभद्राद्या, जैनो धर्मोऽस्तु मङ्गलम् // 1 // नाभेयाद्या जिनाः सर्वे, भरताद्याश्च चक्रिणः / कुर्वन्तु मङ्गलं सर्वे, विष्णवः प्रतिविष्णवः // 2 // अचलाद्या बलाः सर्वे, मोक्षं स्वर्ग च गामिनः / धर्म जिनोक्तं कुर्वाणा, मङ्गलाय भवन्तु मे // 3 // नाभिसिद्धार्थभूपाद्या, जिनानां पितरः समे / पालिताऽखण्डसाम्राज्या, यच्छन्तु मम मङ्गलम् // मरुदेवात्रिशलाद्या, विख्याता जिनमातरः। त्रिजगज्जनितानन्दा, मङ्गलाय भवन्तु मे // 5 // श्रीपुण्डरीकेन्द्रभूति-प्रमुखा गणधारिणः। श्रुतकेवलिनोज्येपि, मङ्गलानि दिशन्तु मे // 6 // ब्राह्मीचन्दनवालाद्या, महासत्यो महत्तराः / अखण्डशीललीलाढया, यच्छन्तु मम मङ्गलम् // 7 // चक्रेश्वरीसिद्धायिका-मुख्याः शासनदेवताः। सम्यग्दृष्टिजीवानां, मङ्गलाय भवन्तु ताः // 8 // कपर्दिमातङ्गमुख्या, देवाः शासनरक्षकाः। जैनशासनविघ्नानि, नाशयन्तु क्षणे क्षणे // 9 //