________________ 315. मुनिवराणामेकाकिविहरणनिषेधसूक्तानि शाकिनीवदविरति-संज्ञा नाटयप्रिया सदा / ग्रासाय यतते यस्य, स एकाकी कथं भवेत् ? // 5 // पञ्चाग्निवदसंतुष्टं, यस्येन्द्रियकुटुम्बकम् / देहं दहत्यसंदेहं, स एकाकी कथं भवेत् // 6 // दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो ! / यद्विग्रहं न मुञ्चन्ति, कथं तस्यैकतासुखम् ? // 7 // स्वमनोवाक्तनूत्थानाः कुव्यापाराः कुपुत्रवत् / भ्रंशाय यस्य यास्यन्ति, कथं तस्यैकतासुखम् ? // 8 // यस्य प्रमादमिथ्यात्व-रागाद्याश्च्छलवीक्षिणः। कुप्रातिवेश्मिकायन्ते कथं तस्यैकतासुखम् ? // 9 // सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारणम् प्रधानं सर्वधर्माणां जैनं जयति शासनम्