________________ 288 सुभाषितसूक्तरत्नमाला स्वजना दूरतो यान्ति, न विश्वसिति कोपि हि / लक्ष्मीविलयते शीघ्रं, द्यूतव्यसनशालिनः // 6 // वरं हालाहलं भुक्तं, भृगुपातः कृतो वरम् / वरं वहिप्रवेशो वा, न तु द्यूतं निषेवितुम् // 7 // वेश्यानी ओळख नटविटभटभुक्तां सत्यशौचादिमुक्तां, कपटशतनिधानं शिष्टनिन्दानिदानम् / धननिधनविधानं सद्गुणानां पिधानं, पराभवपदव्येकां कः पणस्त्रीं भजेत / / 8 / / अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् / वेश्याप्रेम दुर्जनमैत्रिः, षडेते बुबुदोपमाः // 9 // 117 पुनरुक्तेरदोषत्वख्यापकानि सूक्तानि वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् / यत्पदमसकृद् ब्रूते, तत्पुनरुक्तं न दोषाय // 1 // सज्झायझाणतवओसहेसु, उवएसथुइपयाणेसु / सन्तगुणकित्तणेसु य, न हुन्ति पुनरुत्तदोसा // 2 // ये तीर्थकृत्प्रणीता, भावास्तदनन्तरैश्च परिकथिताः / तेषां वहशोऽप्यनुकीर्तनं, भवति पुष्टिकरमेव // 3 // 118 जातिस्वभावसूक्तानि स्त्रीजातौ दाम्भिकता, भीरूकता भूयसी वणिज्जातौ / / रोषः क्षत्रियजातो, द्विजातिजातौ पुनर्लोभः // 1 //