________________ सत्तव्यसन दुष्टत्वख्यापकानि सूक्तानि 287 रोगोथी बचवाना उपाय हित-मित-पथ्यंभोजी, वामशायी नित्यं चंक्रमणशीलः / उज्झितमूत्रपुरीषः, स्त्रीषु जितात्मा जयति रोगान् // 12 // भोजनादौ विषतुल्यं, भोजनान्ते शिलोपमम् / मध्ये पीयूषसादृश्य, वारिपानं भवेदहो // 13 // 116 सप्तव्यसनदुष्टत्वख्यापकानि सूक्तानि द्यूतं च मांसं च मुरा च वेश्या, पापधिचौर्ये परदारसेवा / एतानि सप्तव्यसनानि लोके, घोरातिघोरं नरकं नयन्ति // 1 // पित्वा पित्वा पुनः पित्या, पतित्वा च महीतले / पुनरुत्थाय च पित्वा, पुनर्जन्म न विद्यते // 2 // द्यूताद्राज्यविनाशनं नलनृपः, प्राप्तोऽथवा पाण्डवाः, मद्याकृष्णनृपश्च राघवपिता, पापड़ितो दूषितः। मांसाच्छ्रेणिकभूपतिश्च नरके, चौर्याद्विनष्टा न के ?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः // 3 // या विचित्रविटकोटिनिघृष्टा, मद्धमांसनिरतातिनिकृष्टा / कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः जुगारनी भयंकरता प्रभवन्ति भृशं रोगाः शीघ्र कुप्यन्ति देवताः। भ्रश्यन्ति सर्वकार्याणि, द्यूतासक्तस्य देहिनः // 5 //