________________ 284 सुभाषितसूतस्त्नमाला बौद्धं नैयायिकं सांख्य, जैनं वैशेषिकं तथा / जैमिनीयं च नामानि, दर्शनानाममून्यहो // 30 // हयकासरयोरजवानरयो-नकुलोरगयोः करिकेशरिणोः। वृषदंशविनायकवाहनयोः, सहजं भुवि वैरमिह प्रथितम् // 31 // यदात्र भरतक्षेत्रे, राजा दशरथोऽभवत् / तदा सीमन्धरस्वामी, विदेहे व्रतमग्रहीत् // 32 // दानपुण्यकृता कीतिः, पराक्रमकृतं यशः। एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः // 33 // "शिक्षाकल्पो व्याकरणं,छन्दोज्योतिनिरूक्तयः। इति षडङ्गानि।" तत्राध्यैष्ट षडङ्गानि, वेदांश्चतुर एव च / पुराणं धर्मशास्त्रं च, मीमांसा न्यायविस्तरम् // 34 // रणे शूरः नते सोमः, वक्रो वक्रे बुधो बुधे / वाण्यां वाचस्पतिः काव्ये, कविर्मन्दोऽक्रियासु यः॥३५॥ चक्रं खड्गो धनुः शङ्खो, वनमाला गजो मणिः / सप्रभावाणि सप्तास्या-ऽमूनि रत्नानि जज्ञिरे // 36 // अहङ्कारोऽपि बौधाय, रागोऽपि गुरुभक्तये / विषादः केवलायाभूत् , चित्रं श्रीगौतमप्रभोः // 37 // 112 उत्सूत्रवचनदुष्टताख्यापकसूक्तानि अविहिकया वरमकयं, उस्सुयवयणं वयंति सव्वन्नू / जम्हा पायच्छित्तं, अकए गुरुओं कए लहुअं // 1 //