________________ 275 मृत्युभयनिवेदकसूक्तानि सौधर्मादिसुरालयेषु सुखिनो ये चाऽपि वैमानिका, स्ते सर्वेऽपि कृतान्तवासमवशा गच्छति किं शोच्यते // 4 // बद्धा येन दिनाधिपप्रभृतयो मञ्चस्य पादे ग्रहाः, सर्वे येन कृताः कृताञ्जलिपुटाः शक्रादिदिक्पालकाः। लङ्का यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संक्षये, कष्टं विष्टपकण्टको दशमुखो दैवाद्गतः पञ्चताम् // 5 // नो विद्या न च भैपज न च पिता नो बान्धवा नो सुता, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता। नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शक्राः सततं सुरासुरवराः सन्धान्तुमायुः क्षमा: // 6 // आः कष्टं प्रतिपालय त्रिजगतीनाथ ! प्रसद्य क्षणं, यत्तीर्थ न विबाध्यते तव दृशा निस्तेजको भस्मकः / इत्युक्ते हरिणा जगाद य इदं कस्याऽपि नैतद्भवेत, स श्रीवीरजिनः प्रणष्टवृजिनः पुष्णातु वः संपदम् // 7 // हो ! शक्र ! सुरालयश्चलति चेत् प्राची परित्यज्य चेदादित्योऽप्युदयं प्रयाति जलधिः सीमां च चेन्मुञ्चति / आयुर्न त्रुटितं तथापि भुवने सन्धातुमत्र क्षमः, कोऽप्येवं क्षणमेकमाह भगवान् श्रीवर्द्धमानः प्रभुः // 8 // लकेशः क्व स केशवः क्व स नल: क्याऽसौ च ते पाण्डवाः, क्वाऽसौ दाशरथिः क्व तत्कुरुशतं ते शक्रचक्रायुधाः। .