________________ 276 सुभाषितसूक्तरत्नमाला नाभेयप्रमुखाः क्व ते जिनवरास्तत्सर्वसाधारणं, नन्वेतन्मरणं न तत्र शरणं कश्चित् क्वचित् कस्यचित् // 9 // वयं जाता येभ्यश्चिरमुपगता एव खलु ते, समं यैः संवृद्धाः मरणपदवीं तेऽपि च गताः। इदानीमेते स्म: प्रतिदिनसमासन्नविगमा, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः॥१०॥ न काप्यवस्था न च कोऽपि कालो, न कोऽपि देशो न च कोऽपि जीवः।' न वस्तु किश्चित् तदिहाऽस्ति लोके, जीयेत यैरेष रिपुः कृतान्तः // 11 // मृत्योविभेषि किं बाल !, स जातं नैव मुञ्चति / अजातं नैव गृणाति, कुरु यत्नमजन्मनि // 12 // मस्तकस्थायिनं मृत्युं, यदि पश्येदयं जनः / आहारोऽपि न रोचेत, किमुताऽकृत्यकारिता // 13 // स कोऽपि नास्ति संसारे, मृत्युना यो न पीडितः। सिद्धमार्गममुं ज्ञात्वा, कः शोकं कुरुते सुधीः॥१४॥ यस्य यमेन मैत्रिः स्यात् , ज्ञानं वा भुवनाद्भुतम् / स एवं वदति कल्येऽदः, करिष्याम्यपरः कथम् // 15 // तेऽहकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं, प्रोद्यन्मारविकारकन्दकदगं पश्चेन्द्रियाणां जयात् /