________________ 274 सुभाषितसूक्तरत्नमाला 107 क्षुधाया बलवत्तरतासूचकसूक्तम् या सदुपविनाशिनी स्मृतिहरी पञ्चेन्द्रियाकर्षिणी, चक्षुःश्रोत्रललाटदैन्यकरणी वैराग्यमुत्पाटिनी। वन्धूनां त्यजनी विदेशगमती चारित्रविध्वंसिनी, सेयं धावति भूतपश्चदमनी प्राणापही क्षुधा // 1 // ___108 मृत्युभयनिवेदकसूक्तानि परिहरति न मृत्युः पण्डितं श्रोत्रियं वा, धनकनकसमृद्धं बाहुवीर्य नृप वा। . तपसि निरतमेतं सुस्थितं दुस्थितं वा, वनगत इव वह्निः सर्वभक्षी कृतान्तः // 1 // गर्भस्थं जायमानं शयनतलगतं मातुरुत्संगसंस्थं, बालं वृद्धं युवानं परिणतवयसं विश्वमार्य खलं वा / वृक्षाग्रे शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरे वा, पाताले वा प्रविष्टं हरति च सततं दुनियः कृतान्तः // 2 // दिव्यज्ञानयुता जगत्रयनुता येऽनन्तवीर्या जिना, देवेन्द्राः सुरवृन्दवन्धचरणाः सद्विक्रमाश्चक्रिणो। वैकुण्ठा बलशालिनो हलधरा ये रावणाद्याः परे, ते कीनाशमुखं विशन्त्यशरणा यद्वा न लथ्यो विधिः // 3 // ये पातालनिवासिनो सुरगणा ये स्वैरिणो व्यन्तरा, ये ज्योतिष्कविमानवासिविबुधास्तारान्तचन्द्रादयः /