________________ जननीगौरवख्यापकसूक्तानि 271 मीयन्ते तद्गुणाः सम्यक्, तत्तुल्यैरेव नापरैः / व्योममान धरा वेत्ति, धरामानं मरुत्पथः // 51 // अभयंता वि हु नज्जंति, सुपुरिसा गुणगणेहिं नियएहि / किं बोल्लंति मणीओ, जाओ लक्खेहि धिप्पन्ति // 52 // 104 जननीगौरवख्यापकसूक्तानि माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् / वीरावदातै: पुनरुत्तमानां, लोकोत्तमानां चरणैः पवित्रैः॥१॥ आस्तन्यपानाज्जननी पशूना-मादारलाभाच नराधमानाम् / आगेहकृत्याच विमध्यमाना-माजीवितात्तीर्थमिवोत्तमानाम् // 2 // राज्ञः पत्नी गुरोः पत्नी, पत्नी च मुहृदस्तथा। पत्नीमाता स्वमाता च, पश्चता मातरः स्मृताः॥३॥ व्यूढो गर्भः प्रसवसमये, सोढमत्युग्रशूलम् , पथ्याहारैः स्नपनविधिभिः स्तन्यपानप्रयत्नैः। विष्टामूत्रप्रभृतिमलिनैः कष्टमासाद्य सद्यः, बात: पुत्रः कथमपि यया, स्तूयते सैव माता // 4 // 105 वणिक्स्वरूपप्रदर्शकसूक्तानि स्थाने सिंहसमा वने मृगसमा देशान्तरे जम्बूकाः, आहारे बकभीमसेनसदृशाः श्वानोपमा मैथुने /