________________ 270 सुभाषितसूक्तरत्नमाला दानं दरिद्रस्य विभोः प्रशान्तिः, यूनां तपो ज्ञानवतां च मौनम् / इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति // 44 // स्त्रीरूपापि क्षमैवैका, क्रोधयोधं जयत्यमुम् / गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः // 45 // ये मज्जंति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे, वाद्धौं वीर ! तरन्ति वानरभरान् संस्तारयन्तेऽपि च / नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते // 46 // स्त्रीश्रेष्ठता , पगुमन्धं च कुब्जं च, कुण्ठितं व्याधिपीडितम् / निस्वमापद्गतं नाथं, न त्यजेत् सा महासती // 47 // जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, . दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति / यद्यप्येवं निखिलसुरभिद्रव्यदर्पापहारी, नो जानीमः परिमलगुणः कोऽस्तु कस्तूरिकायाः॥४८॥ खश्लाघा परनिन्दा च, लक्षणं निर्गुणात्मनाम् / परश्लाघा स्वनिन्दा च, लक्षणं सद्गुणात्मनाम् / / 49 // वरं ज्वालाकुले तीवे, ज्वलने ज्वालितं वपुः। न पुनर्गुणगौराङ्गे, मत्सरोऽल्पोऽपि निर्मितः // 50 //