________________ 266 सुभाषितसूक्तरत्नमाला नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी / गुणी च गुणरागी च, विरलः सरलो जनः // 7 // आस्तां च गुणिनस्तावद्, भूषिताशेषभूतलाः / येषां गुणानुरागोऽस्ति, सांप्रतं तेऽपि दुर्लभाः // 8 // अद्भुतमुदयं दद्यु-वृत्तवन्तः पुरस्कृताः। बिन्दुरग्रे कृतोऽङ्कानां, दत्ते दशगुणोन्नतिम् // 9 // गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः / वसुदेवं परित्यज्य, वासुदेवो नमस्यते // 10 // पृथिव्यां त्रीणि रत्नानि, जलमन्नं सुभाषितम् / मूढः पाषाणखण्डेषु, रत्नसंज्ञाऽभिधीयते // 11 // शैले शैले न माणिक्य, मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र, चन्दनं न वने वने // 12 // साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः / कालेन फलति तीर्थ, सद्यः साधुसमागमः // 13 // शतेषु जायते शूरः, सहस्रेषु च पण्डितः। वक्ता दशसहस्रेषु, दाता भवति वा न वा // 14 // नरणे निजिते शूरो, विद्यया न च पण्डितः। न वक्ता वाक्पटुत्वेन, न दाता धनदायकः // 15 // इन्द्रियाणां जये शूरो, धर्म चरति पण्डितः / सत्यवादी भवेद्वक्ता, दाता भीताभयप्रदः // 16 //