________________ 265 'गुणगुणिसमादरसूक्तानि श्रुत्वा तद्वचनं हरिश्च गदति त्वं याहि रे शूकर !, लोकान् ब्रूहि मया जितो मृगपतिर्जानन्ति मे ज्ञा बलम् // 1 // . गता ये पुज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोपत्यागे जनयत समुत्साहमतुलम् / न साधनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् // 2 // वक्त्रे वल्गाप्रकर्षः समरभुवि तव प्राणरक्षाऽपि दैवात, स्वेच्छाचारो न चाऽऽस्ते न हि भवति तथा भारवाहो नितान्तम् / इत्युक्तोऽश्वः खरेण प्रहसितवदनो मूक एवाऽवतस्थे, तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते // 3 // हंसो न भाति वलिभोजकवृन्दमध्ये, . गोमायुमण्डलगतो न विभाति सिंहः / जात्यो न भाति तुरगः खरयूथमध्ये, विद्वान्न भाति पुरुषेषु निरक्षरेषु // 4 // गुणी गुणं वेत्ति न वेत्ति निर्गुणो, वली बलं वेत्ति न वेत्ति निर्बलः / पिको वसन्तस्य गुण न वायसः, करी च सिंहस्य बलं न मूषकः // 5 // गुणेष्वनादरं भ्रात: !, पूर्णश्रीरपि मा कृथाः। संपूर्णोऽपि घटः कूपे, गुणच्छेदात्पतत्यधः // 6 //