________________ 264 सुभाषितसूक्तरत्नमाला अन्नदानैः पयःपानैर्धर्मस्थानैश्च भूतलम् / यशसा वस्तुपालेन, रुद्धं आकाशमण्डलम् // 41 // 102 श्वशुरालयनिवासदुष्टतानिवेदकसूक्तानि क्षणे रुष्टः क्षणे तुष्टः, नानापूजां च वाञ्च्छति / कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः // 1 // श्वशुरगृहनिवासः, स्वर्गतुल्यो नराणां, यदि वसति विवेकी, वासराणि त्रिपञ्च / दधिमधुघृतलोभात् मासयुग्मं वसेत् चेत् , स भवति खरतुल्यो मानवो मानहीनः // 2 // वज्रकूटे विजयरामः, तिलतैलेन माधवः / भूमिशय्या मणिरामो, धकाधुमेन केशवः // 3 // उपस्थितायां विपदि, मरणं शरणं वरम् / मानकशालिनां पुंसां, न पुनः श्वशुरालयः // 4 // प्रयाणपटहः किं चो-त्तमत्वस्य विवेकिनाम् / अधमत्वप्रवेशादि-मङ्गलं श्वशुरालयः // 5 // उत्तमाः स्वगुणैः ख्याता, मध्यमाश्च पितुर्गुणैः / अधमा मातुलैः ख्याताः, श्वशुरैश्चाधमाधमाः // 6 // 103 गुणगुणिसमादरसूक्तानि सो क्रोडमृगाधिपौ च मिलितौ ब्रूते हरिं शूकरो, वादं त्वं वद रे मया सह हरे ! नो चेन्मया हारितः।