________________ कविचातुर्यसूक्तानि चन्द्रगता पद्मगुणान् न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम् / उमामुखं तु प्रतिपद्य लोला, द्विसंश्रयां प्रीतिमवाप लक्ष्मीः // 32 // भकारः कुम्भकर्णे च, भकारश्च बिभीषणे / तयोज्येष्ठः कुलश्रेष्ठो, भकारः किं न विद्यते // 33 // असारे खलु संसारे, सारं श्वशुरमन्दिरम् / हरः शेते हिमगिरौ, हरिः शेते पयोनिधौ // 34 // असारे खलु संसारे, सारं सारङ्गलोचना। यस्याः कुक्षेः समुत्पन्नाः, भोजराज ! भवादृशाः // 35 // काचिन् मृगाक्षी प्रियविप्रयोगे, गन्तुं निशापारमपारयन्ती। उद्गातुमादाय करेण वीणां, एणाङ्कमालोक्य शनैरहासीत्॥३६॥ विहिता निर्विषा नागा, देवाः शक्तिविवर्जिताः / निश्चेष्टाश्च यया सिंहाः, सा बालैर्धियते करे // 37 // सत्यभ्रमेण कृतकानि गृहेषु हत्वा, हन्तव्यरूपशतकानि विशीर्णदन्तः / सत्यान्यपि प्रतिभयेन न तानि हन्ति, संप्राप्तधर्म इव यत्र बिडालकोऽपि // 38 // असन्तोऽस्यै न रोचन्ते, सद्भयो नेयं च रोचते / इत्यप्राप्तवराऽद्यापि, कुमारी कीर्तिकन्यका // 39 // स्थानाभावान् महामात्य ! कुत्रोपविश्यते मया / कथं नास्तीत्यवग् मन्त्री, भट्टोऽप्याचष्ट कौतुकी॥४०॥