________________ 259 कविचातुर्यसूक्तानि 101 कविचातुर्यसूक्तानि गोविन्दनन्दनतया च वपुश्रिया च, माऽस्मिन् नृपे कुरुत कामधियं तरुण्यः / अस्त्रीकरोति जगतां विजये स्मरः स्त्रीः, अस्त्रीजनः पुनरनेन विधीयते स्त्रीः // 1 // शाब्दी प्रहेलिका पयस्विनिनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् / ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः // 2 // आर्थी प्रहेलिका जइ सासुआइ भणिआ पियवासघरंमि दीवय देसु / ता कीस मुडमुही हिअयंमि निवेसये दिहिं // 3 // लक्ष्मि ! प्रेयसि ! केयमास्यशितिमा वैकुण्ठ ! कुण्ठोऽसि कि?, नो जानासि पितुर्विनाशमसमं संघोत्थितैः पांशुभिः। मा भीर्भीरु ! गमीर एव भविताम्भोधिश्चिरं नन्दतात, संघेशो ललितापतिर्जिनपतेः स्नात्राम्बुकुल्यां सृजन् // 4 // किं भूषणं सुन्दर ! सुन्दरीणां, किं दूषणं पान्थजनस्य नित्यम् / कस्मिन् विधात्रा लिखितं जनानां, सिन्दूरविन्दुविधवा ललाटे॥ रामाभिषेके मदविहलाया:, हस्तात् च्युतो हेमघटस्तरुण्या: / सोपानमासाद्य करोति शब्द, टटं टटण्टं टटटं टटण्टः // 6 //