________________ 256 सुभाषितसूक्तरत्नमाला कुङ्कमागरुकस्तूरीकर्पूरं चन्दनं तथा। महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् // 11 // 100 छन्दोलक्षणसूक्तानि यस्याः प्रथमे पादे, द्वादश मात्रास्तथा तृतीयेऽपि / अष्टादश द्वितीये, चतुर्थके पञ्चदश साऽऽर्या // 1 // अगुरुचतुष्कं, भवति गुरू द्वौ धनकुचयुग्मे !, शशिवदनाऽसौ // 2 // सर्वे वर्णा दीर्घा यस्यां, विश्रामः स्याद्वेदैर्वेदैः विद्ववृन्दैर्वीणावाणि !, व्याख्याता सा विद्युन्माला // 3 // इस्वो वर्णों जायते यत्र पष्ठः, . कम्बुग्रीवे ! तद्वदेवाष्टामान्त्यः / विश्रामः स्यात्तन्त्रि ! वेदैस्तुरङ्गैस्तां भाषन्ते शालिनी छान्दसीयाः // 4 // चत्वारः प्राक्सुतनु ! गुरवो द्वौ दशैकादशो चेद, मुग्धे ! वौँ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ / तद्वच्चान्त्यौ युगरसहयैर्यत्र कान्ते ! विरामो, मन्दाक्रान्तां प्रवरकवयस्तन्धि ! तां संगिरन्ते // 5 // आधचतुर्थमहीननितम्बे !, सप्तमकं दशमं च तथान्त्यम् / यत्र गुरु प्रकटस्मरसारे !, तत्कथितं ननु दोधकवृत्तम् // 6 //