________________ 255 उपदेशसप्ततिः यदि द्रव्यप्राप्तिन च तरुणतायाः सुखमपि, न देयं पाण्डित्यं कथमपि नृणां हंसगमने // 2 // एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते / / श्वानयोनिशतं गत्वा, चाण्डालेष्वभिजायते // 3 // तडबुजं कलिङ्गं च, भोज्यं शीतं च वातुलम् / कपित्थं बदरीजम्बू-फलानि घ्नन्ति धीषणाम् // 4 // मुश्च मुश्च पतत्येको, मा मुञ्च पतितो यदि / उभौ तौ पतितौ दृष्ट्वा, मौनं सर्वार्थसाधनम् // 5 // शून्ये दधिघटीं दृष्ट्वा, काकः स्थगनवर्जिताम् / लब्घाऽऽस्वादोऽपि तां मुक्त्वा, कथमन्यत्र गच्छति // 6 // तद्वाक्यमुखरुपाक्षि-जिता इव ययुध्रुवम् / सुधा पातालमिन्दुः खे, दिवि रम्भा जलेऽम्बुजम् // 7 // जानीयात् प्रेषणे भृत्यान्, बान्धवान् व्यसनागमे / मित्रमापत्तिकाले च, भार्या च विभवक्षये // 8 // निर्धना धनवन्तश्च, नृपास्तदधिकारिणः। प्रवासिनश्च वेश्याश्च, न स्वपन्ति कदाचन // 9 // दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धकी, ध्यायत्यर्थपतेभिषगू गदगणोत्पत्तिं कलिं नारदः। दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाढयमवनीपालो हहा ! वाञ्छति // 10 //