________________ 246 सुभाषितसूक्तरत्नमाला उत्खाता चैव भूमिर्जलचरयुगलं सिद्धमन्नं शबं वा, .. वेश्यास्त्री मांसपिण्डं प्रियहितवचनं मङ्गलं प्रस्थितानाम् // 1 // प्रस्तावोचितवाक्येन, कटुवागपि मन्यते / / प्रस्थितैर्वामतः कूजन् , यत् काकः कीर्त्यतेऽनधः॥२॥ दुग्धं पीत्वा रतं कृत्वा, तथा हत्वा गृहस्त्रियम् / स्नात्वा वान्त्वा च निष्ठीव्य, श्रुत्वा दुःशब्दमुल्वणम् // 3 // कारयित्वा नरः क्षौर, अश्रृमोक्षं विधाय च / गच्छेद् ग्रामान्तरे नैव, शकुनापाटवेन च // 4 // नाप्रस्तावे वदन्वाक्यं, मान्यते मजुगीरपि / गर्जनम्भोधरश्चारु, रोहिण्यां श्लाध्यते न यत् // 5 // विनायकखरोष्ट्राणां, दुर्गावेसरवाजिनाम् / वृषसारसफेरूणां, वामे शब्दोऽभवत्तदा // 6 // अवदत् दक्षिणे पार्थे, पक्षी वृद्धविनायकः / अग्रे हस्ती पुनः पृष्ठे, गृद्धस्तस्य महात्मनः // 7 // कृष्णसारः सारमेयः, काकश्च मधुरस्वरः / अभूवन् दक्षिणात् पार्थात, तस्य वामगता अमी // 8 // भ्रमरा हरिणा दुर्गा-नकुलौ चापखञ्जनौ / वामभागादमी तस्य, दक्षिणं भागमैयरुः // 9 // पितरं सद्गुरुं मित्रं, सुतं शिष्यं च. बान्धवम् / यस्येच्छेत् शीघ्रमावृत्ति, न तं दूरमनुत्बजे // 10 //