________________ लौकिकधर्मशास्त्राभिप्रायप्रतिपादकसूक्तानि 245 न चलति निजवर्णधर्मतो यः, सममतिरात्मसुहृद्विपक्षपक्षे / न हरति न च हन्ति किश्चिदुच्चैः, स्थिरमनसं तमवेहि विष्णुभक्तम् // 15 // विमलमतिरमत्सरः प्रशान्तः, शुचिचरितोऽखिलसत्त्वमित्रभूतः / प्रियहितवचनोऽसमानमायो, बसति सदा हृदि तस्य वासुदेवः // 16 // अयोध्या मथुरा माया, काशी काञ्ची अवन्तिका / पुरी द्वारवती चैव, सप्तैता मोक्षदायिका // 17 // पौराणिक मते गाजर अने मुला मांस अने मदिरा समान के रक्तमूलकमित्याहु-स्तुल्यं, गोमांसभक्षणम् / श्वेतं तद्विद्धि कौन्तेय ! मूलकं मदिरोपमम् // 18 // रीगणां कालिंगा अने मूला खानार अन्तकाले परमात्माने याद करी शकतो नथी यस्तु वृन्ताककालिङ्ग-मूलकानां च भक्षकः। अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये / 19 / / 97 शकुनसूक्तानि गोकन्याशङ्खवाधं दधिफलकुसुमं पावकं दीप्यमानं, गानं वा विप्रयुग्मं हयगजवृषभं पूर्णकुम्भं ध्वजं वा /