________________ कन्यादानसूक्तानि 231 नमन्ति फलिता वृक्षा, नमन्ति कुशला नराः। शुष्कं काष्ठं च मूर्खाश्च, भज्यन्ते न नमन्ति च // 10 // स्वयं मूर्खाऽलसो यश्च, परवागविचारकः / स दुःखी स्याद्यथा शीत-पीडितो जटिलः पुरा // 11 // रुदितमिदमरण्ये खण्डनं यत्तुषाणां, वियति नियतमेते, निष्ठुरा मुष्ठिघाताः / मृतकवपि पूजा मण्डनं चान्धवक्त्रे, यदविबुधजनानामग्रतो धर्मवादः // 12 // गीतकाव्यविनोदेन, कालो गच्छति धीमताम् / व्यसनेन हि माणां, निद्रया कलहेन वा // 13 / / पण्डितेषु गुणाः सर्वे , मूर्खे दोषास्तु केवलम् / तस्मान् मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते // 14 // ____ 92 कन्यादानसूक्तानि मूर्खनिर्धनदरस्थ-शृरमोक्षाभिकाक्षिणाम् / त्रिगुणारिकवर्याणामेपां कन्या न दीयते // 1 // कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च / वरे गुणाःसप्त विलोकनीया, अतः परं भाग्यवशा हि कन्या // 2 // जातेति चिन्ता महतीति शोकः,कस्य प्रदेयेति महान् विकल्पः। दत्ता सुखं स्थास्यति वा न वेति,कन्यापितृत्वं किल हन्त कष्टम् //