________________ 238 सुभाषितसूक्तरत्नमाला मूर्खत्वं सुलभं भजस्व सुमते ! मूर्खस्य चाष्टौ गुणा, निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिंदिवा स्वप्नभाक् / कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्खः सुखं जीवति // 2 // श्रोतव्ये च कृतौ करें, वाग्बुद्धिश्च विचारणे / यः श्रुतं न विचारेत, स कार्य विन्दते कथम् // 3 // हितमहितमुचितमनुचितमवस्तुवस्तुस्वयं यो न वेत्ति / स पशुः शृङ्गविहीनः, संसारवने परिभ्रसति // 4 // येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः। ते मृत्युलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति // 5 // साहित्यसंगीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः / तणं न खादन्नपि जीवमानः, तद्भागधेयं परमं पशूनाम् // 6 // खादन्न गच्छामि हसन्न जल्पे, गतं न शोचामि कृतं न मन्ये। द्वाभ्यां तृतीयो न भवामि राजन् !, कि कारणं भोज ! भवामि मुखः॥७॥ पठितेनाऽपि मर्तव्यं, शठेनाऽपि तथैव च / उभयोमरणं द्रष्ट्वा, कण्ठशोषं करोति कः ? // 8 // अजातमृतमूर्खेभ्यो, मृताऽजातौ सुतौ वरम् / यतस्तौ स्वरूपदुःखाय, यावज्जीवं जडः पुनः // 9 //