________________ ...... सुभाषितसूक्तरत्नमाला ... मतांतर " श्रीविक्रमाच्छरदां नवनवत्यधिकेषु कार्तिकमासे / हस्तार्के द्वितीयायां गतेष्वेकादशशतेषु // कुमारपालो नृपो भविष्यति // " जाता दिग्विजयाः कुमारनृपतेः पञ्चायुती स्यन्दना, जजुर्जङ्गमपर्वता इव शतान्येकादशेभेष्वराः / रेवन्तप्रतिमा हयाः पृथुरया लक्षाणि चैकादश, प्रख्याताः पदिका: समीपरसिका लक्षास्तथाऽष्टादश // 36 // 88 उपदेशवैफल्यसूचकसूक्तानि उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये / पयःपानं भुजङ्गानां, केवलं विषवर्द्धनम् // 1 // द्वौ हस्तौ द्वौ च पादौ च, दृश्यसे पुरुषाकृतिः / रे रे वानर ! मूर्खस्त्वं, गृहं किं न करोष्यपि ! // 2 // शुचिमुखि ! दुराचारि !, रण्डे ! पण्डितमानिनि ! / असमर्थों गृहारम्भे, समर्थों गृहभञ्जने // 3 // किं करिष्यन्ति वक्तारः, श्रोता यत्र न विद्यते / नग्नक्षपणके देशे, रजकः किं करिष्यति // 4 // प्रायः संप्रति कोपाय, सन्मार्गस्योपदर्शनम् / विलूननासिकस्येव, विशुद्धादर्शदर्शनम् // 5 //