________________ आदरमानसूचकसूक्तानि 235. लोक व्यवहारने नही जाणनार पंडित पण मूर्ख काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु बाच्यमानाः / लोकस्थिति यदि न बेत्ति यथानुरुपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती // 6 // अल्पबुद्धि तथा दुर्बिदग्धने तात्त्विक उपदेश हितकारी नथी जनानामल्पबुद्धीनां, नैतत्तत्त्वं हितावहम् / निर्बलानां क्षुधार्तानां, भोजनं चक्रिणो यथा // 7 // ज्ञानांशदुर्विदग्धानां, तत्त्वमेतदनर्थकृत् / अशुद्धमन्त्रपाठस्य, फणिरत्नग्रहो यथा // 8 // 89 आदरमानसूचकसूक्तानि अधमा धनमिच्छन्ति, धनमाने हि मध्यमाः। उत्तमा मानमिच्छन्ति, मानं हि महतां धनम् // 1 // वदनं नैव सानन्द--मासनं न च भाषणम् / न कार्यवादपृष्टव्यं, तस्य पार्श्व गतेन किम् ? // 2 // वदनं यस्य सानन्द-मासनं चैव भाषणम् / प्रष्टव्यं कार्यवादस्य, गम्यते तस्य सन्निधौ // 3 / मा गा इत्यपमङ्गलं व्रज इति स्नेहेन हीनं वचस्तिष्ठेति प्रभुता यथारुचि कुरुष्वेत्यप्युदासीनता। किं ते साम्प्रतमाचराम उचितं तत्सोपचारं वचः, स्मर्तव्या वयमेव मित्र ! भवता यावत्पुनदर्शनम् // 4 //