________________ 230 सुभाषितसूक्तरत्नमाला यूकालिक्षशतावलीविलविलच्चोलश्चलत्कम्बलो, दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः / / नाशावंशविरोधनाद् गिणगिणत्पाठप्रतिष्ठाविधिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति // 6 // वाक्यं तत्परुषाक्षरं मुनिपतिः श्रुत्वा न कोपं दधौ, किञ्चित् तं स्मितधौतदन्तवसनः प्रोचे क्षमावानिति / किं पद्ये प्रथम विशेषणमिहाधीतं न धीवारिधे !, सोऽयं सेवडहेमडेति विदुषा वाच्यं त्वयाऽतः परम् // 7 // पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः / अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधाद्, यस्याऽऽस्वाद्य वचःसुधां स जयतु श्रीहेमचन्द्रो गुरुः // 8 // मया क्लेशसहस्रेण, रससिद्धिय॑धीयत। अमीषां नु स्वभावेन, स्ववपुःस्थैव विद्यते // 9 // कटरे तपस: शक्ति-पुरे भाग्यवैभवम् / स्वर्णपुंवद् यदीयेयं, तनुः सर्वाऽपि रैमयी // 10 // ठाणट्टिएहिं गुरुहि, जाणूवरि अंगुलिं भमंतेहिं / पीडा हरिया रनो, पढिया केणावि तो गाहा // 11 // जह जह पएसिणिं जाणुयम्मि पालित्तओ भमाडेइ / तह तह मुरुंडरायस्स, सीसवियणा परिफिडइ // 12 //