________________ शासनप्रभावकानां महिमसूचकसूक्तानि 21 दिक्षुभिक्षुरेकोऽस्ति, वारितो द्वारि तिष्ठति / हस्तन्यस्तचतुः श्लोको, किं वाऽऽगच्छतु गच्छतु // 13 // दीयतां दशलक्षाणि, शासनानि चतुर्दश / हस्तन्यस्तचतुःश्लोको, यद्वाऽऽगच्छतु गच्छतु // 14 // अपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः। मार्गणोघः समभ्येति, गुणो याति दिगन्तरम् // 15 // सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे बुधैः / नाऽरयो लेभिरे पृष्ठं, न चक्षुः परयोपितः // 16 // आहते तव निःस्वाने, स्फुटितं रिपुहृद्घट:, गलिते तत्प्रियानेत्रे, राजन् ! चित्रमिदं महत् // 17 // सरस्वती स्थिता वक्त्रे, लक्ष्मीः करसरोरुहे / कीर्तिः किं कुपिता राजन् !, येन देशान्तरं गता / 18 // भूरिभारभराक्रान्तः, स्कन्धोऽयं तव बाधति / न तथा बाधते स्कन्धो, यथा बाधति बाधते // 19 // 'स्फुरन्ति वादिखद्योताः, सांप्रतं दक्षिणापथे / नूनमस्तं गतो वादी, सिद्धसेनो दिवाकरः॥२०॥ वादविद्यावतोऽद्यापि, लेखशालामनुज्झता / देवसूरिप्रभोः साम्यं कथं स्यादेवसूरिणा // 21 // यदि नाम कुमुदचन्द्र, नाजेष्यदेवमूरिरहिमरुचिः। कटिपरिधानमधास्यत, कतमः श्वेताम्बरो जगति // 22 //