________________ सम्पकुसुम्पयोः सूक्तानि 229 बहूनामल्पसाराणां, समवायो हि दुर्जयः / तृणैविधीयते रज्जु-बंध्यन्ते दन्तिनस्तया // 3 // एते शतं वयं पञ्च, यावद्वैरं परस्परम् / परैस्तु परिभूता हि, वयं पश्चोत्तरं शतम् // 4 // 87 शासनप्रभावकानां महिमसूचकसूक्तानि त एव धन्या यशसां निकेतनं, तैरेव रत्नप्रसवा वसुन्धरा / बलेन वीर्येण धिया हिया श्रिया, कुर्वन्ति ये श्रीजिनशासनोन्नतिम् साहम्मियवच्छल्लम्मि, उज्जुया उज्जुया य सज्झाए / चरणकरणेसु य रया, तित्थस्स पभावगा हुंति // 2 // विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशनाः, तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः। आहारं सघृतं पयोदधियुतं ये भुञ्जते मानवाः, तेषामिन्द्रियनिग्रहो बत कथं दम्भः समालोक्यताम् // 3 // तच्छ्रत्वा सूरयोऽवोचन्, क्रमोऽयमविवेकिनाम् / किन्तु सत्त्ववतां राजन् !, ह्युत्तमानामयं क्रमः॥४॥ सिंहो बली द्विरदसाम्बरमांसभोजी, संवत्सरेण कुरुते रतमेकवारम् / पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं ननु कोऽत्र हेतुः ? // 5 //