________________ 227 सामान्योपदेशसूक्तानि धर्मनिन्दी पङ्क्तिभेदी, निद्राछेदी निरन्तरम् / कथाभङ्गी वृथापाकी, पञ्चैतेऽत्यन्तपापिनः // 23 // आदौ तावन्मधुरं, मध्ये तीक्ष्णं ततस्ततः कटुकम् / दुर्जनमैत्रीसदृशं, भोजनमिच्छन्ति नीतिज्ञाः // 24 // राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते / भर्तरि स्वीकृतं पापं, शिष्यपापं गुरावपि // 25 // एकराव्युषितस्यापि, या गतिब्रह्मचारिणः / न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! // 26 // आयच्ययमनालोच्य, यस्तु वैश्रमणायते / .. अचिरेणैव कालेन, सोऽत्र वै श्रमणायते // 27 // कुलादपि वरं शीलं, वरं दारिद्यमामयात् / राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा // 28 // कृतज्ञस्वामिसंसर्ग-मुत्तमस्त्रीपरिग्रहम् / कुर्वन् मित्रमलोभं च, नरो नैवाऽवसीदति // 29 // उद्यमे नास्ति दारियं, पठने नास्ति मुर्खता / मौनेन कलहो नास्ति, नास्ति जागरतो भयम् // 30 // पापान्निवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति / आपद्गतं च न जहाति. ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥३१॥