________________ 226 सुभाषितसूक्तरत्नमाला रूपं जरा सर्वसुखं च तृष्णा, याचा महत्वं गुणमात्मशंसा / खलेषु सेवा पुरुषाभिमान, चिन्ता बलं हन्ति दयां च लक्ष्मीः॥ त्रिवर्गसंसाधनमन्तरेग, पशोरिवायुविफलं नरस्य / तत्राऽपि धर्म प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ // 14 // पादं पवित्रं कुरु तीर्थगमनं, हृदयं पवित्रं कुरु ज्ञानसारम् / मुखं पवित्रं जिनराजनाम, हस्तं पवित्रं कुरु दानपुण्यम् // 15 // कामातुराणां न भयं न ल जा, अर्थातुराणां न च बन्धुमित्रम् / क्षुधातुराणां न बलं न तेजो, चिन्तातुराणां न सुखं न निद्रा / / यत्नानुसारिणी विद्या, लक्ष्मीः पुण्यानुसारिणी। दानानुसारिणी कीर्ति-बुद्धिः कर्मानुसारिणी // 17 // वैद्यराज ! नमस्तुभ्यं, यमराजसहोदर ! / यमस्तु हरति प्राणान् , वैद्यः प्राणघनानि च // 18 // अतिवृष्टिरनावृष्टि-मूषकाः शलभाः शुकाः। अत्यासन्नाश्च राजानः, षडेता ईतयः स्मृताः // 19 // अत्यागसहनो बन्धुः, सदैवानुमतः सुहृद् / एकक्रियं भवेन्मित्रं, समप्राणः सखा मतः // 20 // जीर्णे भोजनमात्रेयः, कपिलः प्राणीनां दया / बृहस्पतिरविश्वासः, पाञ्चालः स्त्रीषु मार्दवम् // 21 // आगे देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः / निधना दानमिच्छन्ति, वृद्धा वेश्या पतिव्रता // 22 //