________________ 221 नीतिसमर्थकसूक्तानि नलेन सह तेऽद्यापि, भोग्यं कर्मास्ति तिष्ठ तत् / इति व्रतोद्यतां भैमी, तदा सूरिरबोधयत् // 51 // स्वर्गश्च सोऽपवर्गव, यस्य ख्याता फलद्वयी / आजन्म तन्मयोपात्तं, ब्रह्मचर्यमतः परम् // 52 // चारणश्रमणैः पूर्व, इति मे प्रतिपादितम् / प्रथमं च चतुर्थ च, व्रतेष्वनुपमे व्रते // 53 / / प्रतिपेदे मया पूर्व, प्राणिनामभयवतम् / ब्रह्मव्रतमिदानीं तु, मम भाग्यमहो ! महत् // 54 // 84 नीतिसमर्थकसूक्तानि वरं बाल्ये मृत्युनं तु विभवहीनं निवसनं, वरं प्राणत्यागो न पुनरधमागारगमनम् / वरं वेश्या भार्या न पुनरविनीता कुलवधूः, वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे // 1 // असन्तुष्टा द्विजा नष्टाः, सन्तुष्टाश्च महीभुजः / सलज्जा गणिका नष्टा, निर्लज्जा च कुलाङ्गना // 2 // निविषेणाऽपि सर्पण, कर्त्तव्या महती फणा। विषं भवतु वा माऽस्तु, स्फटाटोपो भयङ्करः॥३॥ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् / हिमांशुमाशु ग्रसते, तन् म्रदिम्नः स्फुटं फलम् // 4 //