________________ 220 सुभाषितसूक्तरत्नमाला दुष्टस्य दण्डं सुजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः। अपक्षपातो रिपुराष्ट्रचिन्ता, पञ्चैव यज्ञाः कथिता नृपाणाम् // धन्नाण वि ते धन्ना, पुरिसा निस्सीमसत्तसंजुत्ता। जे विसमसंकडेसु, पडिया वि चयन्ति नो धम्मं // 43 // किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः, पूर्णेचात्र वनान्तरे च ज्वलिते यैः सार्द्धमुत्पश्यति / एकेनाऽपि करीन्द्रकुम्भदलनव्यापारसारात्मना, सिंही दीर्घपराक्रमेण शिशुना पुत्रेण गुञ्जायते // 44 // जइ मंडलेण भासिय, हत्थी दळुण रायमग्गंमि / ता किं गयस्स जुत्तं, मुणहेण समं कलि काउं // 45 // यदि काको गजेन्द्रस्य, विष्ठां कुर्वीत मूर्धनि / कुलानुरुपं तत्तस्य, यो गनो गज एव सः // 46 // पाण्डवानां पानि, पावनानि वनानि च / मद्यं तान्येव रोचन्ते, कृतं पितृगृहेण मे // 47 // काननं सदनं तन्मे, द्रुमाः कल्पद्रुमाश्च ते / पादेयंत्राऽऽर्यपुत्रस्य, प्रसादः क्रियते स्वयम् // 48 // ताम्बुलं भूषणं पुष्पं, रक्तवस्त्रविलेपनम् / विकृतीः षट् च नाऽऽदास्ये, यावन्मिलति नो प्रियः // 49 / / सती यद्यस्मि चेज्जैन-शासनेऽस्मि दृढा रुजुः। वारिदा वारि वर्षन्तु, तस्मात् कुण्डकाबहिः // 50 //