________________ सात्त्विकभावसूक्तानि 219 क्षुत्क्षामोऽपि जराकृशोऽपि शिथिल-प्रायोऽपि कष्टां दशामापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि / मत्तेभेन्द्रविशालकुम्भदलनव्यापारबद्धस्पृहः, कि जीर्ण तृणमत्ति मानमहतामग्रेसरः केशरी // 33 // श्रियमनुभवन्ति धीरा, न भीरवः किमपि पश्य शस्त्रातः / कर्णः स्वर्णालङ्कृति-रञ्जनरेखाङ्कितं चक्षुः॥३४॥ पडिवन्नं दिणयरवासराणं, दो पि अखंडिअं होइ / सूरो न दिगेण विमा, विणा अ नहु सूरविरमि // 35 // अलसंनेण सज्जणेण जे, अबखरा समुलविभा। ते पत्थरटकुक्कीरिअव्वं, न अन्नहा हुँति // 36 // लज्जा बारेइ महं, असंपया भणइ मग्गीरेमग्गी / दिन्नं मानकवाडं, देहीति न निग्गया वाणी // 37 // उद्यमं साहसं धैर्य, वलं बुद्धिः पराक्रमः / षडेते यस्य विद्यन्ते, तस्य दैव: पराङ्मुखः // 38 // धीरवी समर्यादः, सत्वं रक्ष्यं विवेकिभिः / समापन्ने निजप्राण-संशये सुमहत्यपि // 39 // सत्त्वं चेदेकमप्यस्ति, किमन्यैर्बहुभिर्गुणैः / तदेव हन्त चेन्नास्ति, किमन्यैर्वहुभिर्गुणैः // 40 // कार्यः संपदि नानन्दः, पूर्वपुण्यभिदे हि सा / नैवापदि विषादस्तु, सा हि प्राक् पापपिष्टये // 41 //