________________ 216 सुभाषितसूक्तरत्नमाला एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः / स्वप्नेऽप्येवंविधा चिन्ता, मृगेन्द्रस्य न जायते // 8 // पौष्याः पञ्चशरा शरासनमपि ज्याशून्यमक्ष्णोर्लता, जेतव्यं च जगत्त्रयं प्रतिदिनं जेताऽप्यनङ्गः किल / ईक्षेऽपि वशीकृतं त्रिभुवनं जानेऽस्मि तत्कारणं, तेजो यस्य विराजते स बलवान् स्थूलेबू कः प्रत्ययः // 9 // प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः। विघ्नैः सहस्रगुणितैरपि हन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति // 10 // विजेतव्या लङ्का चरणतरणीयो जलनिधिः, विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाऽप्याजी रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे // 11 // तावद्भयेन भेतव्यं, यावदनागतं भयम् / आगतं तु भयं दृष्ट्वा , यतितव्यं तदत्यये // 12 // विदारयति यत्कर्म, तपसा च विराजते / तपोवीर्येण संयुक्तः, तस्माद्वोर इति स्मृतः // 13 // मुनिभ्यः पृथिवी दत्ता, विक्रिता ससुता प्रिया / यत्करिष्यति दैवं तत् , हरिश्चन्द्रः सहिष्यते // 14 //