________________ 212 सुभाषितसूक्तरत्नमाला परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनम् / वर्जयेत्तादृशं मित्रं, विषकुम्भं पयोमुखम् // 7 // उपकारिणि विश्वस्ते, साधुजने यः समाचरति पापम् / तं जनमसत्यसन्धं, भगवति ! वसुधे ! कथं वहसि ! // 8 // विद्यया सह मर्तव्यं, न तु देया कुशिष्यके / विद्यया लालितो मूर्खः, पश्चात्संपद्यते रिपुः // 9 // दुर्जनेन समं सख्यं, प्रीतिं चापि न कारयेत् / उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम् // 10 // नाऽहं काको महाराज !, हंसोऽहं विमले जले / नीचसंगप्रसंगेन, मृत्युरेव न संशयः // 11 // चौराणां दुर्जनानां च, शाकिनीनां विशेषतः / अभिप्राया न सिध्यन्ति, तेनेदं वर्तते जगत् // 12 // साऽऽह रे ! सर्पपाभानि, परछिद्राणि पश्यसि / आत्मनो बिल्बमात्राणि, पश्यन्नपि न पश्यसि // 13 // निस्सारस्य पदार्थस्य, प्रायेणाडम्बरो महान् / न हि तादृग् ध्वनिः स्वर्णे, यादृक् काश्ये प्रजायते // 14 // दुर्जनः परिहर्त्तव्यो, विद्ययाऽलङ्कृतोऽपि सन् / मणिना भूषितः सर्पः, किमसौ न भयङ्करः // 15 // वरं मचु वरं वाहि, वरं दारिदसंगमो।। वरं अरण्णावासो अ, मा कुमित्ताण संगमो // 16 //