________________ .210 सुभाषितसूक्तरत्नमाला शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता, किं ब्रमः शूचितां वजन्त्य शुचयः संगेन यस्यापरे। किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोर्बु क्षमः // 5 // सज्जनस्य हृदयं नवनीतं, यद्वदन्ति कवयस्तदलीकम् / अन्यदेहविलसत्परितापात्, सज्जनो द्रवति नो नवनीतम् // 6 // दुःखितेषु दयाऽत्यन्तमद्वेपो गुणवत्सु च / औचित्यासेवनं चैव, सर्वत्रैवाविशेषतः // 7 // प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि:, प्रियं कृत्वा मौनं सदलि कथनं नाप्युपकतेः / अनुत्सेको लक्ष्म्या निरनिभवताराः परकथा: श्रुते चासन्तोपः कथमनभिजाले निवसति // 8 // कृतज्ञस्वामिसंसर्ग-मुत्तमस्त्रीपरिग्रहम् / कुर्वन् मित्रमलोभं च, नरो जैवावसीदति // 9 // ___ सजान अने दुर्जननी ओळखाण गच्छतः स्खलनं क्वाधि, भवत्येव प्रसादतः। हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः // 10 // दोपलक्षान् परित्यज्य, गुणान् गृह्णन्ति साधवः / गुणलक्षाननादत्य, दोपान् पश्यन्ति दुर्जनाः // 11 // सज्जन पुरुषो प्राणत्यागे पण सिद्धांत विरुद्ध न बोले "न शुद्धसिद्धान्तविरूद्धवाक्यं प्राणप्रगाशेऽपिवदन्ति सन्तः।"