________________ 209 सज्जनसूक्तानि आटला कदापि तृप्त थता नथी अग्निविप्रो यमो राजा, समुद्र उदरं स्त्रियः / अनुप्ता नैव तृप्यन्ति, याचन्ते च दिने दिने // 7 // श्रियः सुखस्य कीर्तेश्व, सद्गीते जीवितस्य च / प्रेयः समागमानाञ्च, सूक्तानाञ्च न तृप्यते // 8 // न वह्विस्तृणकाष्ठाद्यै-नदीभिर्वा महोदधिः / न चैवात्मार्थसारेण, शक्यः तर्पयितुं कचित // 9 // 80 सज्जनसूक्तानि तप्तं तप्तं पुनरपि पुनः काञ्चनं कान्तवर्ण, घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारूगन्धम् / छिन्नश्छिन्नः पुनरपि पुनः स्वादवानिक्षुदण्डः प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्नमानाम् // 1 // ददतु ददतु गालि गालिमन्तो भवन्तो, वयमपि तदभावाद्गालिदानेऽप्यशक्ताः। जगति विदितमेतद् दीयते विद्यमानं, न हि शशकविषाणं कोऽपि कस्मै ददाति // 2 // दुर्ज प्रथमं वन्दे, सज्जनं तदनन्तरम् / गुदः प्रक्षालनं पूर्व, हस्तप्रक्षालनं ततः // 3 // नालिकेरसमाकारा, दृश्यन्ते खलु सज्जनाः। अन्ये बदरीकाकारा, बहिरेव मनोहराः॥४॥