________________ हामीमहत्वख्यापकसूक्तानि 203 शक्रः कल्पमादीन् कनकशिखरिणोऽधित्यकासु न्यधासीद् धुर्तेभ्यस्त्रासमित्थं दधति दिविषदो मानवाः के वराकाः॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुधोगितां, मुकत्वं मितभापितां वितनुते मौग्ध्यं भवेदार्जवम् / पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां, मातर्लक्ष्मि ! तव प्रसादवशतो दोपा अमी स्युर्गुणाः // 9 // वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः। ते सर्वे धनवृद्धानां, द्वारि तिष्ठन्ति किङ्कराः // 10 // अर्थात्रिवर्गनिष्पत्ति-व्योपार्जितवर्धनात् / अधर्मानर्थशोकानां, विपरीतात्समुद्भवः // 11 // लक्ष्मीविना सर्व शून्य अपुत्रस्य गृहं शून्यं, दिश: शून्या अबान्धवाः। मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता // 12 // गुणज्ञोपि कृतज्ञोपि, कुलीनोपि महानपि / प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः // 13 // लक्ष्मीज आदर अपावनार छ रामः- स एव त्वं स एवाहं, स एव च त्वदाश्रमः / पूर्व नवादरः कोपि, साम्प्रतं केन हेतुना? // 14 // वसिष्ठः- स एव त्वं स एवाहं, स एव च मदाश्रमः। पूर्व तु निर्धनोऽभूस्त्वं, साम्प्रतं तु पुरंदरः // 15 //